|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.63. अध्यायः 063
Mahabharata - Vana Parva - Chapter Topics
दमयन्तीं परित्यज्याटव्यामटन्तं नलंप्रति वनवह्निवेष्टितेन कर्कोटकेनात्मपरिरक्षणप्रार्थना ॥ 1 ॥ नलेन दावाग्नितो मोचितेन कर्कोटकेन नलगात्रे दंशनेन वैरूप्यापादनम् ॥ 2 ॥ तथा निजरूपाविष्करणेच्छायां स्वस्मरणेन वासोवसनविधानपूर्वकं वस्त्रप्रदानम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
बृहदश्व उवाच। 3-63-0x(1938)(18361)
उत्सृज्य दमयन्तीं तु नलो राजा विशांपते।
ददर्श दावं दह्यन्तं महान्तं गहने वने ॥ 3-63-1(18362)
तत्र सुश्राव शब्दंवै मध्ये भूतस्य कस्यचित्।
अभिधाव नलेत्युच्चैः पुण्यश्लोकेति चासकृत् ॥ 3-63-2(18363)
मा भैरिति नलश्चोक्त्वा मध्यमग्नेः प्रविश्य तम्।
दद्रश नागराजानं शयानं कुण्डलीकृतम् ॥ 3-63-3(18364)
स नागः प्रञ्जलिर्भूत्वा वेपमानो नलं तदा।
उवाच मां विद्धिराजन्नागं कर्कोटकं नृप ॥ 3-63-4(18365)
मया प्रलब्धो ब्रह्मर्षिरनागाः सुमहातपाः।
तेन मन्युपरीतेन शप्तोस्मि मनुजाधिप ॥ 3-63-5(18366)
तिष्ठ त्वं स्थावर इव यावदेति नलः क्वचित्।
इतो नेतासि तत्स त्वं शापान्मोक्ष्यसि मत्कृतात् ॥ 3-63-6(18367)
तस्य शापान्न शक्नोमि पदाद्विचलितुं पदम्।
उपदेक्ष्यामि ते श्रेयस्त्रातुमर्हति मां भवान् ॥ 3-63-7(18368)
सखा च ते भविष्यामि मत्समो नास्ति पन्नगः।
लघुश्च ते भविष्यामि शीघ्रमादाय गच्छ माम् ॥ 3-63-8(18369)
एवमुक्त्वा स नागेन्द्रो बभूवाङ्गुष्ठमात्रकः।
दं गृहीत्वा नलः प्रायाद्देशं दावविवर्जितम् ॥ 3-63-9(18370)
आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मना।
उत्स्रष्टुकामं तं नागः पुनः कर्कोटकोऽब्रवीत् ॥ 3-63-10(18371)
पदानि गणयन्गच्छ स्वानि नैषध कानिचित्।
तत्रतेऽहं महाबाहो श्रेयो धास्यामि यत्परम् ॥ 3-63-11(18372)
ततः संख्यातुमारब्धमदशद्दशमे पदे।
तस्य दष्टस्य तद्रूपं क्षिप्रमन्तरधीयत ॥ 3-63-12(18373)
स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृतं नलः।
स्वरूपधारिणं नागं ददर्श स महीपतिः ॥ 3-63-13(18374)
ततः कर्कोटको नागः सान्त्वयन्नलमब्रवीत्।
मया तेऽन्तर्हितं रूपं न त्वां विद्युर्जना इति ॥ 3-63-14(18375)
यत्कृते चासि निकृतो दुःखेन महता नल।
विषेण स मदीयेन त्वयि दुःखं निवत्स्यति ॥ 3-63-15(18376)
विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यति।
तावत्तु त्वां महाराज क्लेशेऽस्मिन्स नियोक्ष्यति ॥ 3-63-16(18377)
अनागा येन निकृतस्त्वमनर्हो जनाधिप।
क्रोधादसूययित्वा तं रक्षा मे भवतः कृता ॥ 3-63-17(18378)
न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतोपि वा।
ब्रह्मवित्त्वं च भविता मत्प्रसादान्नराधिप ॥ 3-63-18(18379)
राजन्विषनिमित्ता च न ते पीडा भविष्यति।
संग्रामेषु न राजेन्द्रशश्वज्जयमवाप्स्यसि ॥ 3-63-19(18380)
गच्छ राजन्नितः सूतो बाहुकोऽहमिति ब्रुवन्।
समीपमृतुपर्णस्य स हि वेदाक्षनैपुणम् ॥ 3-63-20(18381)
अयोध्यां नगरीं रम्यामद्य वै निषधेश्वर।
स तेऽक्षहृदयं दाता राजाऽश्वहृदयेन वै ॥ 3-63-21(18382)
इक्ष्वाकुकुलजः श्रीमान्मित्रं चैव भविष्यति।
भविष्यसि यदाऽक्षज्ञः श्रेयसा योक्ष्यसे तदा ॥ 3-63-22(18383)
संयोक्ष्यसे स्वदारैस्त्वं मा स्म शोके मनः कृथाः।
राज्येन तनयाभ्यां च सत्यमेतद्ब्रवीमि ते ॥ 3-63-23(18384)
स्वं रूपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप।
संस्मर्तव्यस्तदा तेऽहंवासश्चदं विवासयेः ॥ 3-63-24(18385)
अनेन वाससाच्छन्नः स्वं रूपं प्रतिपत्स्यसे।
इत्युक्त्वा प्रददौ तस्मै दिव्यं वासोयुगं तदा ॥ 3-63-25(18386)
एवं नलं च संदिश्य वासो दत्ताव च कौरव।
नागराजस्ततो राजंस्तत्रैवान्तरधीयत ॥ 3-63-26(18387)
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि त्रिषष्टितमोऽध्यायः ॥ 63 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-63-8 लघुगुरुत्वरहितः ॥ 3-63-9 दावविवर्जितं बह्निहीनम् ॥ 3-63-12 दशेत्युक्तेऽदशत्। आज्ञां विना नागो न दशतीति भावः 3-63-15 स कलिः। इदं दमयन्त्या दत्तस्य शापस्य फलं कलिर्भुङ्क्ते इति भावः ॥ 3-63-17 अनागाः निरपराधः। निकृतो वञ्चितः। मे मया ॥ 3-63-18 ब्रह्मविद्भ्यश्च भवितेति झ. पाठः ॥ 3-63-21 अक्षहृदयं द्यूते जयावहम्। अश्वहृदयेन विद्यया विद्यां परिवर्तयेदित्यर्थः ॥ 3-63-24 निवासयेः परिधेहि ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|